Monday, May 29, 2017

दत्तस्तवस्तोत्र

*🔅दत्तस्तवस्तोत्र 🔅*

अनसूयात्रिसंभूत दत्तात्रेय महामते l
सर्वदेवाधिदेवत्वं त्वं मम चित्तं स्थिरीकुरु ll

शरणागतदीनार्थतारकाsखिलकारक l
सर्वचालक देव त्वं मम चित्तं स्थिरीकुरु ll

सर्वमंगलमांगल्य सर्वाधिव्याधिभेषज l
सर्वसंकटहारिन् त्वं मम चित्तं स्थिरीकुरु ll

स्मर्तुगामी स्वभक्तानां कामदो रिपुनाशनः l
भुक्तिमुक्तिप्रदः स त्वं मम चित्तं स्थिरीकुरू ll

सर्वपापक्षयकरस्तापदैन्यनिवारणः l
योsभिष्टदः प्रभुः स त्वं मम चित्तं स्थिरीकुरु ll

य एतत्प्रयतः श्लोकपंचकं प्रपठेत्सुधीः l
स्थिरचितः स भगवत्कृपापात्रं भविष्यति ll


No comments:

Post a Comment