Friday, September 30, 2016

श्रीपादवल्लभ


श्रीपादवल्लभगुरोः वदनारविन्दं
वैराग्यदीप्तिपरमोज्ज्वलमद्वितीयम् |
मन्दस्मितं सुमधुरं करुणार्द्रनेत्रं
संसारतापहरणं सततं स्मरामि ||


श्रीपादवल्लभ गुरोः करकल्पवृक्षं
भक्तेष्टदाननिरतं रिपुसंक्षयं वै |
संस्मरणमात्र चितिजागरणं सुभद्रं
संसारभीतिशमनं सततं भजामि ||

श्रीपाद वल्लभ गुरोः परमेश्वरस्य
योगीश्वरस्य शिवशक्ति समन्वितस्य |
श्रीपर्वतस्य शिखरं खलु सन्निविष्टं
त्रैलोक्यपावनपदाब्जमहं नमामि ||

|| श्रीपादराजं शरणं प्रपद्ये ||