Tuesday, January 3, 2023

Anagha Ashtami Puja {अनघालक्ष्मीव्रतपूजा }

 अनघालक्ष्मीव्रतपूजा 


॥ जय गुरुदत्त ॥


श्री गणेशाय नमः । श्री सरस्वत्यै नमः ।

श्री पादवल्लभ नरसिंह सरस्वति ।

श्री गुरु दत्तात्रेयाय नमः ।


श्री महागणाधिपतये नमः । श्री महासरस्वत्यै नमः ।

श्री गणपति सच्चिदानन्द सद्गुरुभ्यो नमः ।


श्री अनघाष्टमी व्रत कल्पः (कोटि अनघा व्रत प्रति)


ॐ अपवित्रः पवित्रो वा सर्वावस्था गतोऽपि वा ।

यस्मरेत् पुण्डरीकाक्षं स बाह्याभ्यन्तरश्शुचिः ॥


आचम्य -

ॐ केशवाय नमः ।

ॐ नारायणाय नमः ।

ॐ माधवाय नमः ।

ॐ गोविन्दाय नमः ।

ॐ विष्णवे नमः ।

ॐ मधुसूदनाय नमः ।

ॐ त्रिविक्रमाय नमः ।

ॐ वामनाय नमः ।

ॐ श्रीधराय नमः ।

ॐ हृषीकेशाय नमः ।

ॐ पद्मनाभाय नमः ।

ॐ दामोदराय नमः ।

ॐ सङ्कर्षणाय नमः ।

ॐ वासुदेवाय नमः ।

ॐ प्रद्युम्नाय नमः ।

ॐ अनिरुद्धाय नमः ।

ॐ पुरुषोत्तमाय नमः ।

ॐ अधोक्षजाय नमः ।

ॐ नारसिंहाय नमः ।

ॐ अच्युताय नमः ।

ॐ जनार्दनाय नमः ।

ॐ उपेन्द्राय नमः ।

ॐ हरये नमः ।

ॐ श्रीकृष्णाय नमः ।

ॐ परब्रह्मणे नमो नमः ।

उत्तिष्ठन्तु भूतपिशाचाः एते भूमि भारकाः ।

एतेषामविरोधेन ब्रह्मकर्म समारभे ॥


प्राणायाम मन्त्रः -

दत्तात्रेयाय विद्महे अत्रिपुत्राय धीमहि । तन्नो दत्तः प्रचोदयात् ॥


प्राणायाम करावा


सङ्कल्पः -

ममोपात्त समस्त दुरितक्षय द्वारा परमेश्वरमुद्दिश्य श्री परमेश्वर प्रीत्यर्थं, शुभे शोभने मुहूर्ते श्री महाविष्णोराज्ञया, प्रवर्तमानस्य अद्य ब्रह्मणः द्वितीय परार्थे, श्वेत वराह कल्पे, वैवस्वत मन्वन्तरे कलियुगे, प्रथमपादे, जम्बूद्विपे, भरतवर्षे, भरतखण्डे, मेरोर्दक्षिणदिग्भागे। ..... प्रदेशे ..... मध्यदेशे शोभन गृहे समस्त देवता गो ब्राम्हण हरिहर सद्गुरु चरण सन्निधौ ..... अस्मिन् वर्तमान व्यावहारिक चान्द्रमानेन। ..... आम संवत्सरे ..... अयने ..... ऋतौ ..... मासे ..... पक्षे ..... तिथौ ..... वासरे ..... नक्षत्रे शुभ करण एवं गुण विशेषण विशिष्टायां शुभ तिथौ (आपले गोत्र, जन्मनक्षत्र आणि नाव साङ्गा) ..... गोत्रस्य ..... नक्षत्रे जातस्य ..... नामधेयस्य मम श्री अनघादेवी समेत श्री अनघस्वामि प्रसाद सिद्ध्यर्थं, भक्ति ज्ञान वैराग्य योगानान्निरन्तराभि वृद्ध्यर्थं - आत्मज्ञान सिद्धर्थं -अस्माकं सहकुटुम्बानां क्षेम स्थैर्य आयुरारोग्य ऐश्वर्याभिवृध्यर्थं- धर्मार्थ काम मोक्ष चतुर्विध फल पुरुषार्थ सिद्ध्यर्थं श्री अनघादेवी समेत श्री अनघ स्वामिनमुद्दिश्य -श्री अनघा देवी समेत श्री अनघ स्वामि पूजां यावच्छक्ति ध्यानावाहनादि षोडशोपचार विधानेन करिष्ये ।


कलशं गन्धपुष्पाक्षतैरभ्यर्च्य (कलश पूजा करावी.)


कलशपूजा -

कलशपूजा तदङ्ग कलशाराधनं करिष्ये ।

कलशस्य मुखे विष्णुः कण्ठे रुद्रस्समाश्रितः ।

मूले तत्र स्थितो ब्रह्मा मध्ये मातृ गणाः स्मृताः ॥


कुक्षौ तु सागरास्सर्वे सप्तद्वीपा वसुन्धरा ।

ऋग्वेदोऽथ यजुर्वेदस्सामवेदो ह्यथर्वणः ॥


अङ्गैश्च सहितास्सर्वे कलशाम्बु समाश्रिताः ।

आयान्तु देव पूजार्थं दुरितक्षय कारकाः ॥


गङ्गे च यमुने कृष्णे गोदावरि सरस्वति ।

नर्मदे सिन्धु कावेरि जलेऽस्मिन् सन्निधिं कुरु ॥


कलशोदकेन पूजा द्रव्याणि सम्प्रोक्ष्य, देवं, आत्मानं च सम्प्रोक्ष्य,

कलश स्थापना विधिः -

आदौ कल्पोक्त विधानेन तत्तद्देवताऽऽवाहनं प्राणप्रतिष्ठापनं च करिष्ये ।


श्री गणपति प्रार्थना -

आदौ निर्विघ्न परिसमाप्त्यर्थं महागणपति प्रार्थनं करिष्ये ।

वक्रतुण्ड महाकाय सूर्यकोटी समप्रभ ।

निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥


शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।

प्रसन्न वदनं ध्यायेत् सर्वविघ्नोपशान्तये ।


महागणपतये नमः ।

आदौ कल्पोक्त तत्तदेवता आवाहनं प्राण प्रतिष्ठापनं च करिष्ये'' (सङ्कल्प करावा)


अष्टसिद्धयः -

अणिमा महिमा प्राप्तीः प्राकाम्यं महिमा तथा ।

ईशित्वं वशित्वं च यच्च कामावसायिता ॥


१. अणिमा

अणो रणीयसः पुत्र ईशानाशा व्यवस्थितः ।

अनघास्याणिमाभिख्यः पुत्रश्चित्रस्यनोऽवतु

अष्टदल पद्मे ईशान्य दले कलशे अणिमाख्य

देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) सूक्ष्माहून सूक्ष्म अनघ स्वामीञ्चे पुत्र, विचित्र स्वभावाचे अनघदेवाचे ईशान्य भागात राहणारे आणिमाख्य आमची रक्षा करो !


२. लघिमा

अनघानघयोः पुत्रो लघिमाख्यः कृपाऽलघुः ।

देवस्याग्नेय कोणस्थो लघुबुद्धिस्सनोऽवतु ॥


अष्टदल पद्मे आग्नेय दले कलशे लघिमाख्य

देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) अनघ दाम्पतिचा मुलगा दयावान अग्नेयाला निवास करणारा सुक्ष्म बुद्धी असणारा

लघिमाख्य आमची रक्षा करो !


३. प्राप्तिः

भक्ताभीष्ट फलप्राप्तिकारकोऽनघयोस्सुतः ।

देवस्य नैरृत्य कोणे स्थितः प्राप्तिस्सनोऽवतु ॥


अष्टदल पद्मे नैरृति दल कलशे प्राप्ति

देवतामावाहयामि स्थापयामि पूजयामि

(मराठी भाषान्तर) भक्तान्ना फल प्रदान करणारे नैरृत्य दिशेला निवास करणारे अनघ दम्पतिचा मुलगा प्राप्ति नाम धारण करणारा आमची रक्षा करो !


४. प्राकाम्यं

अवधूत गुरोस्स्वेच्छा सञ्चारस्यानघस्य यः ।

वायुकोण स्थितः पुत्र प्राकाम्याख्यस्सनोऽवतु ॥


अष्टदल पद्म वायव्य दले कलशे प्राकाम्य

देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) स्वेच्छेनुसार सञ्चार करणारे अनघ स्वामीञ्चे पुत्र, वायव्य कोनात वास्तव्य करणारे हे प्राकाम्याख्य आमची रक्षा करो !


५. ईशित्वं

सर्वातिशायितां देवस्यानघस्य देवस्या जगद्गुरोः ।

ख्यापयन् दक्ष भागस्थ ईशित्वाख्यस्सनोऽवतु ।

अष्टदल पद्मे देवस्य दक्षिण भागस्थ दले कलशे

ईशित्व देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) जगत् गुरु अनघस्वामीञ्च्या सर्वोन्नत्व प्रकट करणारे, स्वामीञ्च्या दक्षीण दिशेला निवास करणाऱ्या हे ईशित्वारव्य आमची रक्षा करो !


६. वशित्वं

जगद्यस्य वशे तिष्ठत्यनघस्य महात्मनः ।

आत्मजो वाम भागस्थो वशित्वाख्यस्सनोऽवतु ॥


अष्टदल पद्मे देवस्य वामभागस्थ दले कलशे

वाशित्व देवतामावाहयामि स्थापयामि पूजयामि ॥


(मराठी भाषान्तर) हा संसार जो अनघ महात्म्याच्या अधिन आहे। त्या अनघ स्वामीञ्चा पुत्र डाव्या भागात निवास करणाऱ्या, हे वाशित्वाख्य आमचे रक्षण करो !


७. कामावसायिता

कामावसायिताभिख्यो ह्ययनघस्याङ्गरक्षवत् ।

पश्चाद् भागस्थितः पुत्रः कमनीयस्सनोवतु ॥


अष्टदल पद्मे देवस्य पश्चाद् भागस्थ दले कलशे कामवसायिताख्य देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) अङ्गरक्षकाच्या सारखा अनघस्वामीञ्च्या मागे राहणारा, अतिसुन्दर हे कामवसायिता नावाच्या पुत्रा, आमची रक्षा कर !


८. महिमा

पुरस्तादनघ द्वन्द्व पाद सीम्नि व्यवस्थितः ।

महिमाख्यो महा कार्यकारी पुत्रस्सनोवतु ॥


अष्टदल पद्म पुरस्ताद्दले कलशे महिमाख्यः

देवतामावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) स्वामीञ्च्या समोर पायाजवळ राहुन सर्वकार्यास सिद्धी प्रदान करणारे हे महिमाख्य पुत्र आमची रक्षा करो !


९. दत्तात्रेयः

एवं तत्तत्सुतभ्राजद्दलाष्टक सुशोभिनः ।

कर्णिकायां पङ्कजस्य कलितायां महागुणैः ॥


समासीनः प्रशान्तात्मा कृपाब्धिरनघाह्वयः

दत्तात्रेयो गुरुर्विष्णु ब्रह्मोशात्मा सनोऽवतु ॥


अष्टदल पद्मे मध्ये कर्णिकायां प्रधान कलशे

श्रीमदनघस्वामिनमावाहयामि स्थापयामि पूजयामि ।

(मराठी भाषान्तर) या प्रकारे आठ दत्त युक्त प्रकाशमान कमलाच्या मध्य भागात पुत्रांसहीत महागुणांसहीत विष्णु, ब्रम्हा, शिवात्मक हे अनघस्वामि आमची रक्षा करा !


१०. अनघालक्ष्मीः

अनघस्वामिनः पार्श्वे समासीन कृपालया ।

सर्वैर्बाह्म्य गुणैर्युक्ता योगाधीश जगत्प्रसूः ॥


पद्मासना पद्मकरा भक्ताधीना पतिव्रता ।

अनघाम्बा महालक्ष्मीर्महाभागा च नोऽवतु ॥


कर्णिकायां अनघ स्वामिनः पार्श्वे श्रीमती अनघादेवीं

आवाहयामि स्थापयामि पूजयामि ॥


(मराठी भाषान्तर) अनघस्वामीञ्च्या पार्श्वमध्ये स्थित, दयानिधी ब्रह्मरूपी, गुणासहीत योगेश्वरी जगन्माता, पद्मासनात बसलेली, हाती पद्म असलेली, भक्ताञ्च्या आधीन, पतिव्रता महालक्ष्मीस्वरूपिणी, महान आत्मायुक्त देवी, हे अनघा माता आमची रक्षा करो !


११. प्राणप्रतिष्ठा

ऐशान्यां मणिमाभिख्ये चाग्नेय्यां लघिमाभिधे ।

प्राप्तिनमानि नैरृत्ये प्राकारामाख्येऽनिलस्थले ।

ईशित्वाख्ये वशित्वाख्ये चोभयोः पार्श्वयोरपि ।

कामावसायितानाम्नि पश्चाद्भागें गरक्षवत् ।

महिम्नि पादमूले च दलेष्वष्टसु नित्यशः ।

भ्राजमानेषु तन्मध्ये कर्णिकायां कृतालयौ ।

अनघश्चानघादेवी प्राणचेष्टाविराजितौ ।

चरतां मम हृत्पद्मे गुरु मार्ग प्रवर्तकौ ॥


(मराठी भाषान्तर) ईशान्य भागात अणिमा, आग्नेय भागात लघिमा, नैरृत्य भागात प्रात्पि, वायव्य भागात प्राकाम्य, उजव्या व डाव्या भागात ईशित्व, वशित्व, पश्चिम भागात अङ्गरक्षकासमान कामावसायित् आणि प्रथम पादाजवळ महिमा, या प्रकारे अष्टदलामध्ये नित्य आठ द्वारा शोभायमान व दलाच्या मध्यान्त स्थित कर्णिका मध्ये सुशोभित होऊन गुरु सम्प्रदाय प्रवर्तक श्री अनघ दम्पति प्राण सहित समस्त कर्मान्नी युक्त माझ्या हृदयान्त वास करीत आहेत।


अणिमादि, अङ्ग देवता परिवृत श्री अनघालक्ष्मी समेत श्री अनघस्वामिने नमः । सर्वेद्रियाणि वाङ्मनश्चक्षु श्श्रोत्र जिह्वा घ्राण रेतो बुद्ध्यादीनि इहैवाऽगत्य, स्वस्तये सुखं चिरं तिष्ठन्तु स्वाहा । प्राण प्रतिष्ठापन मुहूर्तस्सुमूहूर्तोऽस्तु ॥ स्वामिन् स्थिरो भव । वरदो भव । सुमुखो भव । सुप्रसन्नो भव । स्थिरासनं कुरु ॥


१२. स्वामिन् सर्वजगन्नाथ यावत् पूजावसाम् ।

तावत्वं प्रीतिभावेन कुम्भेऽस्मिन् सन्निधिं कुरु ॥


(मराठी भाषान्तर) सर्व लोकाञ्चे स्वामी या कलशामध्ये पूजा पूर्ती होईपर्यन्त निवास करा।


१३. ध्यानं

पद्मासनोत्तान मनोज्ञ पादं

     पद्मं दधानं नभयं च पाण्योः ।

योग स्थिरं निर्भर कान्ति पुञ्जं

     दत्तं प्रपद्येऽनघ नामधेयम् ॥


श्री अनघालक्ष्मी समेत श्री अनघ स्वामिने नमः ।

ध्यायामि ध्यानं समर्पयामि ॥


(मराठी भाषान्तर) पद्मासनान्त बसल्यामुळे सरळ दिसणाऱ्या, सुन्दर चरणाञ्च्या, हातात पद्म, मुद्रा धारण  करणारा, योगात स्थिर राहणारा, अत्यन्त तेजस्वि अनघ नावाच्या श्री दत्ताला मी शरण जात आहे।


१४. पुनर्ध्यानं

पद्मासनस्थां पदयुग्म नूपुरां

पद्मं दधानामभयञ्च पाण्योः ।

योगेऽर्ध सम्मीलित निश्चलाक्षीं

दत्तानुरक्ता मनघां प्रपद्ये ॥


श्री अनघालक्ष्मी समेत श्री अनघ स्वामिने नमः । ध्यायामि ध्यानं समर्पयामि ॥


(मराठी भाषान्तर) पद्मासनान्त बसणारी, चरणाम्मध्ये पैञ्जण घातलेली, हातात पद्म, अभय मुद्रा धारण करणारी, योगान्त अर्धोन्मीलीत नेत्राञ्ची, दत्तात्रेयांशी अनुराग करणाऱ्या अनघादेवीला मी शरण जात आहे।


१५. आवाहनं

गुणातीतावपि स्वेषु कृपया त्रिगुणान्वितौ ।

अनघा मनघं देवं देवीं चावाहयाम्यहम् ॥


श्री अनघा देवी समेत श्री अनघस्वामिने नमः आवाहयामि ॥


(मराठी भाषान्तर) सद्गुण सम्पन्न, आपल्या भक्तांवर कृपा दृष्टी ठेवणाऱ्या, त्रिगुण युक्त अनघस्वामी आणि अनघा देवीला आवाहन करीत आहे।


१६. आसनं

सौवर्णपीठं कृष्णत्वक् चित्रासन कुशासनैः ।

आस्तृतं गृह्यतां देवावनघा वर्पितं मया ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

आसनं समर्पयामि ।

(मराठी भाषान्तर) कृष्णाजिन, चित्रासन, कुशासन यान्नी युक्त सिंहासन समर्पित करीत आहे।


१७. पाद्यं

योगिशीर्षेऽमृतासारौ जम्भशीर्षेऽग्नि वर्षकौ ।

पादौ पाद्येन हृद्येन क्षालयेऽनघया रहम् ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

पादयोः पाद्यं समर्पयामि ।

(मराठी भाषान्तर) योग्याञ्च्या शिरावर अमृतवर्षा करणारा, जम्भासुराच्या शिरावर अग्नीची वर्षाकरणाऱ्या अनघ दम्पति चरणान्ना मनोहर जलाने प्रक्षालित करत आहे।


१८. अर्घ्यं

पद्मेन मालया चात्तौ भक्ताभीती प्रदायकौ ।

अर्घ्येण शीतलीकुर्यामनघानघयोः करौ ॥


श्री। अनघादेवी समेत श्री अनघ स्वामिने नमः ।

हस्तयोः अर्घ्यं समर्पयामि ।

(मराठी भाषान्तर) पद्म, जपमाला, अभय मुद्रा धारण करणाऱ्या अनघ दम्पतिच्या हातान्ना अर्घ्याने शीतल करीत आहे।


१९. आचमनं

ज्ञानज्योतिर्विनितानां वेदज्योतिश्च वेधसः ।

यतोऽनघ मुखाद्वयक्तं तत्राचमनमर्पितम् ।

श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

शुद्ध आचमनं समर्पयामि ।

(मराठी भाषान्तर) भक्तान्ना ज्ञानज्योति, ब्रह्माला वेदज्योति, ज्या अनघ दम्पतिच्या मुखाद्वारा प्राप्त होते त्या मुखांस आचमन समर्पित करीत आहे।


२०. मधुपर्कं

अनघौ यौ सित परीक्षार्थ माया मधुस्पृशौ ।

मधुपर्क ददे ताभ्यां तत्पादाब्ज मधुव्रतः ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

मधुपर्कं समर्पयामि ।

(मराठी भाषान्तर) आश्रय मिळणाऱ्याच्या, परीक्षेसाठी माया मधुपान करणाऱ्या अनघा दम्पतिच्या चरणान्त मधुपर्क समर्पित करत आहे।


२१. पञ्चामृत स्नानं

यौ कृपा प्रेरितौ भक्त प्रपञ्चेऽमृत वर्षको

पञ्चामृतै स्तौ स्नापयाम्यानघा वमृतात्मकौ ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

पञ्चामृत स्नानं समर्पयामि ।

(मराठी भाषान्तर) दयेने प्रेरित होऊन भक्ताञ्च्या दुनियेत (नाडी मण्डलान्त) अमृत वर्षा करणाऱ्या अमृतस्वरूपवान् अनघा दम्पतिला पञ्चामृत स्नान घालीत आहे।


२२. स्नानं

मातृतीर्थात्पद्मतीर्थात्सर्वतीर्थादनेकतः ।

समानीतैश्शीतलोदैस्स्नपयाम्यनघावुभौ ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

स्नानं समर्पयामि ।

(मराठी भाषान्तर) मातृतीर्थ, पद्मतीर्थ, सर्वतीर्थातून आणलेले थण्ड जलाने अनघा दम्पतिला स्नान घालीत आहे।


२३. वस्त्रं

वल्कले रुचिरे सूक्ष्मे चित्र चित्र दशाञ्चिते ।

मायावृतिच्छेदकाभ्यामनघान्यां ददे मुदा ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

वस्त्रं समर्पयामि ।

(मराठी भाषान्तर) माया आवरणांला छेद करणाऱ्या अनघा दम्पतिला अनेक रङ्गानीयुक्त वस्त्र समर्पित करीत आहे।


२४. उपवीतं

उपवीतं पवित्रञ्च सहजं यत्प्रजापतेः

समर्पितं मया शुभ्र मनघौ प्रतिमुञ्चतम् ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

उपवीतं समर्पयामि ।

(मराठी भाषान्तर) पवित्र ब्रह्माला सहज शुद्ध यज्ञोपवीत समर्पित करीत आहे। हे अनघ दम्पति याञ्चा स्वीकार कर।


२५. गन्धः

मिलत्कर्पूर सद्गन्धै-रनुलिप्याऽनघाऽनघौ ।

मुखयो रलिके कुर्या लसत्फालाक्षि सन्निभे ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

गन्धान् धारयामि ॥ गन्धोपरि अलङ्करणार्थं कुङ्कुमं

अक्षतांश्च समर्पयामि ।

(मराठी भाषान्तर) कर्पूरयुक्त चन्दनाने अनघ दम्पतिला तिलक लावत आहे।


२६. आर्द्रा हरिद्रां पद्योः मुखेपुष्परजोऽनघे

सीमन्त सीम्नि सिन्दूरं तेऽर्पये मङ्गलप्रदे ॥


श्री अनघादेव्यै नमः नानविध मङ्गलद्रव्यानि समर्पयामि ।

(मराठी भाषान्तर) हे मङ्गल प्रदायिनि अनघा देवि! तुझ्या श्रीचरणाम्मधे हळद, माथ्यावर कुङ्कुम व भागात सिन्दूर समर्पित करीत आहे।


२७. आभारणं

शीर्षे कण्ठे बाहुयुग्मे मणिबन्ध द्वये तथा ।

विविधा अक्षमालास्ते भूषार्थं कल्पयेनघ ।

(मराठी भाषान्तर) हे अनघदेव! आपले मस्तक, गळा, बाहु, मणिबन्ध आदि अनेक प्रकारच्या रुद्राक्ष माला भूषणे समर्पित करीत आहे।


२८. पादाङ्गुलीय कटक काञ्ची माङ्गल्य हारकान् ।

कङ्कणं नासिका भूषां ताटङ्के ते ददेऽनघे ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

नानाविध आभारणानि समर्पयामि ।

(मराठी भाषान्तर) हे अनघा देवी! जोडवे, कमरपट्टा, बाजूबन्द, मङ्गळसुत्र, बाङ्गड्या, नथ, कर्णफूल

आपणास समर्पित आहे।


२९. पुष्पं

तत्तत्कालोन्थ पुष्पौघ मालाभिरनघानघौ ।

आपाद शीर्षं सम्भूष्य पुनः पुष्पै समर्चये ॥


श्री अनघादेवी समेत श्री अनघस्वामिने नमः । पुष्पाणि समर्पयामि ।

(मराठी भाषान्तर) अनघ दम्पतिला नखशिखान्ना अनेक प्रकारच्या ऋतु पुष्पमालाने अलङ्कृत करुन फुलाञ्ची पूजा करत आहे।


३०. कुङ्कुम पूजा

देवित्वा मनघे भद्रे सर्वमङ्गल मङ्गले ।

लसत्कुङ्कुम चूर्णेन पूजयामि प्रसीद मे ॥


श्री अनघादेव्यै नमः, कुङ्कुम पूजां समर्पयामि ।

(मराठी भाषान्तर) क्षेत्रस्वरूपिणी, सर्व मङ्गल मङ्गलवान, हे अनघा देवी सुन्दर कुङ्कुमाने तुझी पूजा करत आहे। आमच्या कृपा कर।


अथ अनघ स्वामिनः - अङ्ग पूजा

दत्तस्वामी साठी

१. श्री अनघदेवाय नमः    पादौ   पूजयामि ।

२. त्रिजगत्सञ्चाराय नमः   जङ्घे   पूजयामि ।

३. आजानुबाहवे नमः   जानुनी   पूजयामि ।

४. पद्मासनस्थाय नमः   उरु   पूजयामि ।

५. त्रिगुणेशाय नमः   वलित्रयं  पूजयामि ।

६. शातोदराय नमः   उदरं   पूजयामि ।

७. करुणाकराय नमः   हृदयं   पूजयामि ।

८. भक्तालम्बनाय नमः   बाहू   पूजयामि ।

९. सङ्गीतरसिकाय नमः   कण्ठं    पूजयामि ।

१०. जगन्मोहनाय नमः   मन्दस्मितं  पूजयामि ।

११. जगत्प्राणाय नमः   नासिकां  पूजयामि ।

१२. श्रुतिसंवेद्याय नमः   श्रोत्रे   पूजयामि ।

१३. ध्यानगोचराय नमः   नेत्रद्वयं   पूजयामि ।

१४. तिलकाञ्चितभालाय नमः  भालं   पूजयामि ।

१५. सहस्रशीर्षाय नमः   शिरः‍  पूजयामि ।

१६. सच्चिदानन्दाय नमः   सर्वाण्यङ्गानि पूजयामि ।


अथ अनघालक्ष्म्याः - अङ्ग पूजा

अनघामातेसाठी

१. श्री अनघादेव्यै नमः  पादौ   पूजयामि ।

२. त्रिजगत्सञ्चारायै नमः   जङ्घे   पूजयामि ।

३. आजानुबाहवे नमः   जानुनी   पूजयामि ।

४. पद्मासनस्थायै नमः   उरु   पूजयामि ।

५. त्रिगुणेशायै नमः   वलित्रयं  पूजयामि ।

६. शातोदरायै नमः   उदरं   पूजयामि ।

७. करुणाकरायै नमः   हृदयं   पूजयामि ।

८. भक्तालम्बनायै नमः   बाहू   पूजयामि ।

९. सङ्गीतरसिकायै नमः   कण्ठं    पूजयामि ।

१०. जगन्मोहनायै नमः   मन्दस्मितं  पूजयामि ।

११. जगत्प्राणायै नमः   नासिकां  पूजयामि ।

१२. श्रुतिसंवेद्यायै नमः   श्रोत्रे   पूजयामि ।

१३. ध्यानगोचरायै नमः   नेत्रद्वयं   पूजयामि ।

१४. तिलकाञ्चित भालायै नमः  भालं   पूजयामि ।

१५. सहस्रशीर्षायै नमः   शिरः‍  पूजयामि ।

१६. सच्चिदानन्दायै नमः   सर्वाण्यङ्गानि पूजयामि ।


नामार्चना -

श्री अनघदेवाष्टोत्तरशतनामावलिः ।

ॐ दत्तात्रेयाय नमः   ।

ॐ अनघाय नमः   ।

ॐ त्रिविधाघविदारिणे नमः  ।

ॐ लक्ष्मीरूपानघेशाय नमः  ।

ॐ योगाधीशाय नमः  ।

ॐ द्रांबीजध्यानगम्याय नमः ।

ॐ विज्ञेयाय नमः  ।

ॐ गर्भादितारणाय नमः   ।

ॐ दत्तात्रेयाय नमः   ।

ॐ बीजस्थवटतुल्याय नमः  । १०

ॐ एकार्णमनुगामिने नमः  ।

ॐ योगसन्त्पकराय नमः  ।

ॐ षडर्णमनुपालाय नमः  ।

ॐ अष्टार्णमनुगम्यान नमः ।

ॐ पूर्णानन्दवपुष्मते नमः ।

ॐ द्वादशाक्षरमन्त्रस्थाय नमः ।

ॐ आत्मसायुज्यदायिने नमः ।

ॐ षोडशार्णमनुस्थाय नमः ।

ॐ सच्चिदानन्दशालिने नमः ।

ॐ दत्तात्रेयाय नमः  । २०

ॐ हरये नमः   ।

ॐ कृष्णाय नमः ।

ॐ उन्मत्ताय नमः ।

ॐ आनन्ददायकाय नमः ।

ॐ दिगम्बराय नमः ।

ॐ मुनये नमः ।

ॐ बालाय नमः ।

ॐ पिशाचाय नमः ।

ॐ ज्ञानसागराय नमः ।

ॐ आब्रह्मजन्मदोषौघप्रणाशाय नमः । ३०

ॐ सर्वोपकारिणे नमः  ।

ॐ मोक्षदायिने नमः  ।

ॐ ॐरूपिणे नमः   ।

ॐ भगवते नमः  ।

ॐ दत्तात्रेयाय नमः  ।

ॐ स्मृतिमात्रसुतुष्टाय नमः ।

ॐ महाभयनिवारणाय नमः ।

ॐ महाज्ञानप्रदाय नमः ।

ॐ चिदानन्दात्मने नमः ।

ॐ बलोन्मत्तपिशाचादिवेषाय नमः । ४०

ॐ महायोगिने नमः  ।

ॐ अवधूताय नमः  ।

ॐ अनुसूयानन्दनाय नमः ।

ॐ अत्रिपुत्राय नमः  ।

ॐ सर्वकामफलानीकप्रदात्रे नमः ।

ॐ प्रणवाक्षरवेद्याय नमः ।

ॐ भवबन्धविमोचिने नमः ।

ॐ ह्रींबीजाक्षरपालाय नमः ।

ॐ सर्वेश्वर्यप्रदायिने नमः ।

ॐ क्रोंबीजजपतुष्टाय नमः । ५०

ॐ साध्याकर्षणदायिने नमः ।

ॐ सौर्बीजप्रीतमनसे नमः ।

ॐ मनस्सङ्क्षोभहारिणे नमः ।

ॐ ऐंबीजपरितुष्टाय नमः ।

ॐ वाक्प्रदाय नमः  ।

ॐ क्लींबीजसमुपास्याय नमः ।

ॐ त्रिजगद्वश्यकारिणे नमः ।

ॐ श्रीमुपासनतुष्टाय नमः ।

ॐ महासम्पत्प्रदाय नमः  ।

ॐ ग्लौमक्षरसुवेद्याय नमः । ६०

ॐ भूसाम्राज्यप्रदायिने नमः ।

ॐ द्रांबीजाक्षरवासाय नमः ।

ॐ महते नमः   ।

ॐ चिरञ्जीविने नमः  ।

ॐ नानाबीजाक्षरोपास्यनानाशक्तियुजे नमः ।

ॐ समस्तगुणसम्पन्नाय नमः ।

ॐ अन्तश्शत्रुविदाहिने नमः ।

ॐ भूतग्रहोच्चटनाय नमः ।

ॐ सर्वव्याधिहराय नमः ।

ॐ पराभिचारशमनाय नमः । ७०

ॐ आधिव्याधिनिवारिणे नमः ।

ॐ दुःखत्रयहराय नमः ।

ॐ दारिद्र्यद्राविणे नमः ।

ॐ देहादार्ढ्यायापोषाय नमः ।

ॐ चित्तसंशोषकारिणे नमः ।

ॐ सर्वमन्त्रस्वरूपाय नमः ।

ॐ सर्वयन्त्रस्वरूपिणे नमः ।

ॐ सर्वतन्त्रात्मकाय नमः ।

ॐ सर्वपल्लवरूपिणे नमः ।

ॐ शिवाय नमः  । ८०

ॐ उपनिषदवेद्याय नमः ।

ॐ दत्ताय नमः  ।

ॐ भगवते नमः  ।

ॐ दत्तात्रेयाय नमः  ।

ॐ महागम्भीररूपाय नमः ।

ॐ वैकुण्ठवासिने नमः ।

ॐ शङ्खचक्रगदाशूलधारिणे नमः ।

ॐ वेणुनादिने नमः  ।

ॐ दुष्टसंहारकाय नमः ।

ॐ शिष्टसम्पालकाय नमः । ९०

ॐ नारायणाय नमः  ।

ॐ अस्त्रधराय नमः  ।

ॐ चिद्रूपिणे नमः  ।

ॐ प्रज्ञारूपाय नमः  ।

ॐ आनन्दरूपिणे नमः  ।

ॐ ब्रम्हरूपिणे नमः  ।

ॐ महावाक्यप्रबोधाय नमः ।

ॐ तत्त्वाय नमः   ।

ॐ सकलकर्मौघनिर्मिताय नमः ।

ॐ सच्चिदानन्दरूपाय नमः । १००

ॐ सकललोकौघसञ्चाराय नमः ।

ॐ सकलदेवौघवशीकृतिकराय नमः ।

ॐ कुटूम्बवृद्धिदाय नमः  ।

ॐ गुडपानकतोषिणं नमः  ।

ॐ पञ्चकर्जायसुप्रीताय नमः ।

ॐ कन्दफलादिने नमः   ।

ॐ सद्गुरवे नमः   ।

ॐ श्रीमद्दत्तात्रेयाय नमः । १०८


इति अनघस्वामि अष्टोत्तरशतनामार्चनं समर्पयामि ।


अथ श्री अनघादेव्यष्टोत्तरशतनामावलिः ।

ॐ श्री अनघायै नमः  ।

ॐ महादेव्यै नमः  ।

ॐ महालक्ष्मै नमः  ।

ॐ अनघास्वामिपत्न्यै नमः ।

ॐ योगेशायै नमः  ।

ॐ त्रिविधाघविदारिण्यै नमः ।

ॐ त्रिगुणेशायै नमः  ।

ॐ अष्टपुत्रकुटुम्बिन्यै नमः ।

ॐ सिद्धसेव्यपदे नमः ।

ॐ आत्रेयगृहदीपायै नमः । १०

ॐ विनीतायै नमः  ।

ॐ अनुसूयाप्रीतिदायै नमः ।

ॐ मनोज्ञायै नमः  ।

ॐ योगशक्तिस्वरूपिण्यै नमः ।

ॐ योगातीतहृदे नमः ।

ॐ चित्रासनोपविष्टायै नमः ।

ॐ पद्मासनयुजे नमः  ।

ॐ रत्नागुलीयकलसत्पदाङ्गुल्यै नमः ।

ॐ पद्मगर्भोपमानाङ्घ्रितलायै नमः ।

ॐ भर्तृशुश्रूषणोत्कायै नमः । २०

ॐ मतिमत्यै नमः  ।

ॐ तापसीवेषधारिण्यै नमः ।

ॐ तापत्रयनुदे नमः  ।

ॐ हरिद्रां चत्प्रपादायै नमः ।

ॐ मञ्जीरकलजत्रवे नमः ।

ॐ शुचिवल्कलधारिण्यै नमः ।

ॐ काञ्चीदामयुजे नमः  ।

ॐ गले माङ्गल्यसूत्रायै नमः ।

ॐ ग्रैवेयाली धृते नमः  ।

ॐ क्वणत्कङ्कणयुक्तायै नमः । ३०

ॐ पुष्पालङ्कृतायै नमः  ।

ॐ अभीतिमुद्राहस्तायै नमः ।

ॐ लीलाम्भोजधृते नमः ।

ॐ ताटङ्कयुगदीप्तायै नमः ।

ॐ नानारत्नदीप्तये नमः  ।

ॐ ध्यानस्थिराक्ष्यै नमः  ।

ॐ फालांचत्तिलकायै नमः ।

ॐ मूर्धाबद्धजटाराजत्सुमदामालये नमः ।

ॐ भर्त्राज्ञा पालनायै नमः ।

ॐ नानावेषधृते नमः  । ४०

ॐ पञ्चपर्वान्वितविद्यारूपिकायै नमः ।

ॐ सर्वावरणशीलायै नमः ।

ॐ स्वबलावृतवेधसे नमः ।

ॐ विष्णुपत्न्यै नमः  ।

ॐ वेदमात्रे नमः ।

ॐ स्वच्छशङ्खधृते नमः ।

ॐ मन्दहासमनोज्ञायै नमः ।

ॐ मन्त्रतत्त्वविदे नमः ।

ॐ दत्तपार्श्वनिवासायै नमः ।

ॐ रेणुकेष्टकृते नमः । ५०

ॐ मुखनिस्सृतशम्पाभत्रयी दीप्त्यै नमः ।

ॐ विधातृवेदसन्धात्र्यै नमः ।

ॐ सृष्टि शक्त्यै नमः ।

ॐ शान्तिलक्ष्मै नमः  ।

ॐ गायिकायै नमः  ।

ॐ ब्राह्मण्यै नमः  ।

ॐ योगचर्यारतायै नमः ।

ॐ नर्तिकायै नमः  ।

ॐ दत्तवामाङ्कसंस्थायै नमः

ॐ जगदिष्टकृते नमः । ६०

ॐ शुभायै नमः  ।

ॐ चारु सर्वाङ्ग्यै नमः ।

ॐ चन्द्रास्यायै नमः  ।

ॐ दुर्मानसक्षोभकर्यै नमः ।

ॐ साधु हृच्छान्तये नमः ।

ॐ सर्वान्तस्संस्थितायै नमः ।

ॐ सर्वान्तगण्यै नमः  ।

ॐ पादस्थितायै नमः  ।

ॐ पद्मायै नमः  ।

ॐ गृहदायै नमः   । ७०

ॐ सक्थिस्थितायै नमः ।

ॐ सद्रत्नवस्त्रदायै नमः  ।

ॐ गुह्यस्थानस्थित्यै नमः ।

ॐ पत्नीदायै नमः ।

ॐ क्रोडस्थायै नमः  ।

ॐ पुत्रदायै नमः ।

ॐ वंशवृद्धिकृते नमः  ।

ॐ हृद्गतायै नमः   ।

ॐ सर्वकामपूरणायै नमः ।

ॐ कण्ठस्थितायै नमः  । ८०

ॐ हारादिभूषादात्र्यै नमः ।

ॐ प्रवासबन्धुसंयोगदायिकायै नमः ।

ॐ मृष्टान्नदायै नमः  ।

ॐ वाक्छक्तिदायै नमः  ।

ॐ ब्राह्मयै नमः   । ९०

ॐ आज्ञाबलप्रदात्र्यै नमः ।

ॐ सर्वैश्वर्यकृते नमः  ।

ॐ मुखस्थितायै नमः  ।

ॐ कविताशक्तिदायै नमः ।

ॐ शिरोगतायै नमः  । ९०

ॐ निर्दाहकयै नमः  ।

ॐ रौद्रयि नमः ।

ॐ जम्भासुरविदाहिन्यै नमः ।

ॐ जम्भवंशहृते नमः ।

ॐ दत्तांकसंस्थितायै नमः ।

ॐ वैष्णव्यै नमः  ।

ॐ ऐन्द्रराज्यप्रदायिन्यै नमः ।

ॐ देवप्रीतिकृते नमः ।

ॐ नहुषात्मजदात्र्यै नमः ।

ॐ लोकमात्रे नमः  । १००

ॐ धर्मकीर्तिसुबोधिन्यै नमः ।

ॐ शास्त्रमात्रे नमः  ।

ॐ भार्गवक्षिप्रतुष्टायै नमः ।

ॐ कालत्रयविदे नमः  ।

ॐ कार्तवीर्यव्रतप्रीतमतये नमः ।

ॐ शुचये नमः   ।

ॐ कार्तवीर्यप्रसन्नायै नमः ।

ॐ सर्वसिद्धिकृते नमः  । १०८

ॐ श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।


इति श्री अनघादेव्यष्टोत्तरशतनामार्चनं समर्पयामि ।


श्री अनघ स्वामिनः - षोडश नामानि (१६)

१ श्री अनघाय नमः ।

२ श्री त्रिविधाघविदारिणे नमः ।

३ श्री लक्ष्मीरूपानघेशाय नमः ।

४ श्री सच्चिदानन्दशालिने नमः ।

५ श्री दत्तात्रेयाय नमः ।

६ श्री हरये नमः ।

७ श्री कृष्णाय नमः ।

८ श्री उन्मत्ताय नमः ।

९ श्री आनन्द दायकाय नमः ।

१० श्री दिगम्बराय नमः ।

११ श्री मुनये नमः ।

१२ श्री बालाय नमः ।

१३ श्री पिशाचाय नमः ।

१४ श्री ज्ञानसागराय नमः ।

१५ श्री महाभयनिवारिणे नमः ।

१६ श्री सद्गुरवे नमः ।

षोडश नाम पूजां समर्पयामि ।


श्री अनघा लक्ष्म्याः - षोडश नामानि (१६)

१ श्री अनघायै नमः ।

२ श्री महालक्ष्म्यै नमः ।

३ श्री योगेशायै नमः ।

४ श्री योगशक्तिस्वरूपिण्यै नमः ।

५ श्री तापसीवेषधारिण्यै नमः ।

६ श्री नानारत्नसुदीप्तये नमः ।

७ श्री वेदमात्रे नमः ।

८ श्री शुभायै नमः ।

९ श्री गृहदायै नमः ।

१० श्री पत्नीदायै नमः ।

११ श्री पुत्रदायै नमः ।

१२ श्री सर्वकामपूरणायै नमः ।

१३ श्री प्रवासिबन्धुसंयोगदायिकायै नमः ।

१४ श्री लोकमात्रे नमः ।

१५ श्री कार्तवीर्यव्रतप्रीतमतये नमः ।

१६ श्री सर्वसिद्धिकृते नमो नमः ।

श्री अनघालक्ष्मीसमेत श्री अनघस्वामिने नमः ।

षोडश नाम पूजां समर्पयामि ।


३१. धूपं

नानापरिमल द्रव्य सम्मेलन मनोहरः ।

धूपस्समर्पितो देवावनघौ प्रति गृह्यताम् ॥


श्री अनघादेवी समेत श्री अनघास्वामीने नमः । धूप माघ्रापयामि ।

(मराठी भाषान्तर) माझ्या कडून समर्पित सुगन्नामानिधित द्रव्य अनघ दम्पतिने स्विकार करावे।


३२. दीपं

यद्भासेदं जगद्भाति न दृश्येते तथापि यौ

तावुभौ तत्त्वसन्दीप्त्यै दीपैरुद्दीपयाम्यहम् ।

श्री अनघादेवी समेत श्री अनघस्वामिने नमः ।

दीपं दर्शयामि -धूप दीपानन्तरं आचमनीयं समर्पयामि ।

(मराठी भाषान्तर) ज्याञ्च्या प्रकाशाने हा संसार दैदीप्यामान होत आहे, तसेञ्च जो या संसारात न दिसणारा आहे। अशा अनघ दम्पतिला मी तत्त्वदीप्तिसाठी दिव्यान्नी प्रकाशित करत आहे।


३३. नैवेद्यं

राजान्नं बहु भक्ष्यान्नं नानोपस्कार पुष्कलम् ।

नैवेद्यं श्रुति संवेद्यौ गृह्यता मनघौ मुदा ॥


श्री अनघा देवी समेत श्री अनघ स्वामिने नमः ।

नैवेद्यं समर्पयामि । नैवेद्यं निवेदयामि ।

मध्ये मध्ये स्वादूदकं समर्पयामि । हस्तौ प्रक्षालयामि ।

पादौ प्रक्षालयामि । पुनराचमनीयं समर्पयामि ।

(मराठी भाषान्तर) अनेक पदार्थान्नी युक्त, स्वादिष्ट विविध व्यञ्जनाने युक्त परिपूर्ण राजान्न नैवेद्य रूपाने अनघ दम्पतिने स्वीकार करावे।


३४. ताम्बूलं (वीडा)

अनघस्वामिजनक प्रोद्धृतायुष्यतन्त्रके ।

प्रोक्तैस्सुलक्षणैर्युक्तं ताम्बूलं प्रददे नद्यौ ।

श्री अनघादेवी समेत श्री अनघा स्वामिने नमः ।

ताबूलं समर्पयामि ।

(मराठी भाषान्तर) अनघ स्वामीञ्चे पिता अत्रि महर्षि याञ्चे द्वारा प्रतिपादित आयुर्वेद शास्त्रानुसार ताम्बूलाचा अनघा दम्पतिने स्वीकार करावा।


३५. नीराजनं

प्रभो समन्तात्परिवर्तितै श्री

कर्पूर नीराजन दीप माल्यैः ।

युष्मन्महार्चिः परिवेष पङ्क्तिः

किम्मीरिताभा स्त्वनघेऽनघप्रभो ॥


श्री अनघादेवी समेत श्री अनघ स्वामिने नमः ।

नीराञ्जन समर्पयामि ।

(मराठी भाषान्तर) हे अनघ दम्पति ! आपल्या चारही बाजूने ओवाळलेल्या कर्पूर निराञ्जनाने आपल्या चारही दिशा प्रकाशमान होवोत।


३६. मन्त्र पुष्पं

यौ वेधसे प्रबल मानस दोषजाल

मुन्मूल्य सत्त्वरमभासयतां दि वेदान् ।

तावद्य केलिशुनकीकृत वेदजातैः

श्री मन्त्र पुष्प निचयै रनघौ निषेवे ॥


श्री अनघा देवी समेत श्री अनघ स्वामिने नमः ।

मन्त्र पुष्पं समर्पयामि ।

(मराठी भाषान्तर) ब्रह्माच्या सर्व दोषाचे निवारण करुन त्यान्ना वेदाभ्यास करविणाऱ्या अनघा दम्पतिची आम्ही मन्त्र पुष्पाने सेवा करत आहोत।


३७. प्रदक्षिणं

कार्तवीर्याज नहुष भार्गवेन्द्रादि रक्षकौ ंआनि

अनघौ लोकपितरौ तुष्येतां मे प्रदक्षिणैः ॥


श्री अनघादेवी समेत श्री अनघ स्वामिने नमः ।

प्रदक्षिण नमस्कारान् समर्पयामि ।

(मराठी भाषान्तर) कार्तवीर्य, ब्रह्मा, नहुष चक्रवर्ति, परशुराम, इन्द्र आदिञ्ची रक्षा करणारे अनघ दम्पति, माझ्या प्रदक्षिणेने सन्तुष्ट होवोत।


३८. प्रार्थनं

मनोवाक्कायोत्थं क्षपितमघ मात्मीय विततेः

धृतं नूनं याभ्यां विमलमिह दाम्पत्य लसनम् ।

तयोः पाद द्वन्द्वं महिम मुख पुत्राष्टक लस-

त्परीवारं वन्दे सततमनघाख्या कलितयोः ॥


(मराठी भाषान्तर) आपल्या भक्ताञ्च्या मानसिक, वाचिक आणि कायिक सर्व पापान्ना नष्ट करुन पवित्र दाम्पत्य जीवनाचा स्वीकार करणाऱ्या, महिम आदि अष्टपुत्र-परिवाराकडून सेवा करणाऱ्या अनघ दम्पतिच्या चरणयुगलान्ना मी सदैव नमस्कार करत आहे।


३९. विष्णो अनघ दत्तेश्वरानघे लक्ष्मि मङ्गले ।

उभौहि सच्चिदान्दविग्रहौ भक्त रक्षकौ ॥


युवां मे तुष्यता मद्य पूजया सुप्रसीदताम् ।

ज्ञाताऽज्ञातापराधान्मे क्षमेथां करुणाकरौ ॥


आयुरारोग्यमैश्वर्यं सत्कुटुम्ब प्रवर्धनम् ।

सौमङ्गल्यं यशो विद्यां ज्ञानञ्च दिशतां मुदा ॥


(मराठी भाषान्तर) हे विष्णुस्वरूप अनघ दत्तात्रेय, हे लक्ष्मीस्वरूपिणी, मङ्गल प्रदायिनी अनघा देवी ! आपण दोघे सच्चिदानन्दस्वरूप, भक्ताची रक्षा करणारे आहान्त। आपण माझ्या पूजेने तृप्त होऊन माझ्यावर प्रसन्न व्हा। हे करुणासागर, माझ्या द्वारे, कळत नकळत केलेल्या पापांसाठी मला क्षमा करा। आम्हांला प्रसन्नतापूर्वक आयु, आरोग्य, ऐश्वर्य आणि परिवाराची वृद्धि, सौभाग्य, कीर्ति, विद्या आणि ज्ञान प्रदान करा।


४०. समर्पणं

कायेन वाया मनसेन्द्रियैर्वा

बुध्यात्मनावा प्रकृतेस्स्वाभावात् ।

करोमि यद्यत्सकलं परस्मै

नारायणायेति समर्पयामि ॥


अनेन मया कृतेन अनघा व्रतविधानेन भगवान् सर्वात्मकः, श्री सद्गुरुः प्रीयताम्, सर्वं श्री सद्गुरु चरणारविन्दार्पणमस्तु ।

(मराठी भाषान्तर) शरीर, मन, वचन, इन्द्रिय, बुद्धि, अन्तरात्मा तथा सहज सिद्ध स्वभावाने आमच्या द्वारा केलेल्या प्रत्येक कर्माला परमात्मा श्रीमन्नारायणाला समर्पित करीत आहे।


तोरग्रन्थि पूजनानन्तर धागा बान्धण्याचा मन्त्र


ब्रह्म विष्णु महेशान रूपिन त्रिगुण नायक ।

त्रैवर्णिक नमस्तुभं तोरदेवाऽनघात्मक ॥


ॐ

व्यासप्रणित भविष्योत्तर पुराणान्तर्गत दत्तपुराण

चुतुर्थांशस्था श्री अनघाष्टमी व्रत कथा


अनघाव्रत गीतं

(अमृतवर्षीणि राग, खण्ड गति)

अनघाष्टमी व्रतमुत्तमं भक्तावळी वाञ्छाप्रदम् ।

यत्रानघा योगप्रभा दत्तोऽनघो जातस्स्वयं

सिद्ध्यष्टकं पुत्राऽत्मकं संसेव्यते सम्पूज्यते ।

यत्सेवनात् कष्टं गतं पीडावळी शाम्यत्यपि ।

उज्जृम्भते शुभ मुन्नतं श्री सच्चिदानन्दाऽत्मकम् ॥


अनघव्रतकथा 


प्रथम खण्ड

दीपक उवाच

१. गुरुदेव! पूर्वकाळी जम्भासुर नावाच्या राक्षसाङ्कडून देवतां पराजित झाले. तेंव्हा दत्तात्रेयान्नी राक्षसान्ना हरवून इन्द्रादिदेवताञ्ची रक्षा केली असे मी ऐकले आहे.

२. त्यान्नी युद्ध केले की ते योग बलाने जिङ्कले ? अशी माझी जिज्ञासा आहे. तेव्हा मला या बाबतीत सविस्तर साङ्गावे.

श्री गुरु उवाच

३. वत्सा! याच विषयाम्बाबत धर्मराजाने श्रीकृष्णाला प्रश्न विचारला ते मी साङ्गत आहे. एकाग्रतापूर्वक ऐक !

श्रीकृष्ण उवाच

४. ब्रह्माचे पुत्र अत्रि महातेजस्वि ऋषि आहेत. त्याञ्ची पत्नी अनुसूया जगप्रसिह्द व महान आहे.

५. खूप कालानन्तर त्यान्ना विष्णु अंशाचा महायोगी पुत्र प्राप्त झाला.

६. त्याञ्च्या सारखे या जगान्त कोणीही प्रसिद्ध नाही. त्याञ्च्या सहधर्मचारीणीचे नांव अनघा आहे.

७. ती आठ पुत्राञ्ची आई आहे. ते दयावान, उत्तम, ब्रह्मर्षिच्या गुणान्नी युक्त आहेत. अनघदेव विष्णुचे अंश आणि अनघादेवी लक्ष्मीची अंश आहे.

८. या प्रकारे दत्त पत्नीच्या सोबत योगाभ्यास करीत असताना, जम्भासुरामुळे पीडित देवगण त्यान्ना शरण आले.

९. ब्रह्माच्या वरप्राप्तीमुळे जम्भासुराने अमरावतीला जाऊन एक हजार दिव्य संवत्सर पर्यन्त युद्ध केले.

१०.त्या देवदानव युद्धान्त पाताळात रहाणाऱ्या दैत्य, दानव, राक्षस जातीन्नी युद्ध केले ।

११. शेवटी इन्द्र आदि देवतागण पराजित होऊन स्थान सोडून पळाले.

१२. अशा प्रकारे देवता पळू लागले तेव्हा राक्षसजातिने त्याञ्चा पाठलाग केला.

१३-१४. राक्षस बाण, गदा, मूसळ, आदिने युद्ध करु लागले. त्यातील काही बैल, म्हैस, शरभ, गंण्डक, सिंह, माकड, आणि गर्दभा वर बसून मोठे दगड फेङ्कत तोमर बाण आदिने पाठलाग करु लागले.

१५.१६. अशा प्रकारे देवता अनघ दम्पतिच्या आश्रयान्त (विन्ध्य पर्वत) आले. व ते शरणार्थी म्हणून अनघ दम्पति जवळ आले.

देव उवाच

१७.१८. देव-देव जगन्नाथ! शङ्खचक्र गदाधर! जम्भ दैत्या कडून पराजित होऊन तुम्हाला शरण आलो आहोत. आमचें रक्षण कर.

१९.२०. अनघ भगवानान्नी त्याञ्ची दयनीय अवस्था पाहून, अनघादेवीकडे लीलारूपी सङ्केत केला. सर्व देवतान्ना आश्रमान्त पाठवून, निर्भय होऊन रहावे असे साङ्गितले. ते निडर होऊन राहू लागले.

२१.२२.२३ इतक्यात राक्षस आयूधे हातात घेऊन आले व अनघदेवीला विलासवतीच्या रूपात पाहून ``या चञ्चल मुनिच्या पत्निला पकडा आणि तिला फळ, फूल आदि भेट वस्तू द्या।'' असे म्हणाले. इतक्यात त्याञ्ची ऐश्वर्य लक्ष्मी त्याञ्च्या डोक्यावर चढून बसली. दत्तदेवाचे ध्यानाग्नि नेत्राने पाहील्यामुळे काही राक्षस भस्म झाले. इतक्यात राक्षस अनघादेवीला डोक्यावर बसवून घेऊन चालले.

२४. (दत्त प्रभावाने) तेजोहीन आणि (अनघा देवी प्रभावाने) लक्ष्मीहीन झालेल्या राक्षसान्ना देवगण मारु लागले.

२५.२६. रिष्ट, करण, शूल, परशु त्रिशूल आदि आयुधान्नी देवगणाम्मार्फत राक्षसाञ्च्या संहार होऊ लागला, तेव्हा राक्षस ओरडू, रडू लागले अशा प्रकारे दत्त प्रभावामुळे राक्षस देवताङ्कडून हारले. व जम्भासुर इन्द्राच्या हाताने मारला गेला.

२७. देवतान्नी आपले राज्य पुन्हा स्थापित केले. या प्रकारे देवतान्ना दत्त महाराजाञ्च्या महिमाचा अनुभव आला.

द्वितीय खण्ड

श्रीकृष्ण उवाच -

२८. कार्तवीर्याने दत्त भगवानाञ्ची सर्वाञ्च्या कल्याणासाठी नित्य तपस्या केली.

२९.३० हात वर करुन, डोळे उघडून, भूमध्य दृष्टि ठेऊन, दगड, भिन्त, लाकडासारखे निश्चल राहून तीन हजार दिव्य वर्षे ब्रह्मोत्तर नावाची तपस्या केली.

३१.३२.३३ या प्रकारे ऊर्ध्व मुखाने पापण्या न मिटता, योग समाधित राहते वेळी, महिष्मतीचे राजा कार्तवीर्यार्जुनाने एकट्याने रात्रन्दिवस निर्विराम विनयपूर्वक सेवा केली. त्याने शारीरिक सेवा लक्षपूर्वक व सर्व कार्य दृढतापूर्वक प्रसन्नतेने केले.

३४.३५.३६ तेव्हा दत्तभगवानान्नी त्या तेजस्वी राजाला चार वर दिले. त्याने पहील्या वराने एक हजार हात मागितले. जर त्याने अधर्म केला तर त्याचा सत्पुरुषाद्वारा त्याचे निवारण व्हावे, हा दूसरा वर मागितला. तिसरा वर - धर्म युद्धान्त भूमी धर्मपूर्वक जिङ्कून भूपालन करणे. अनेक युद्धान्त हजारो वीरान्ना जिङ्कून ही आपल्या पेक्षां मोठ्या वीराङ्कडून मृत्यु, असा चौथा वर मागितला.

३७. तेव्हा दत्तमहाराज प्रसन्न झाले व त्यान्नी राजाला राज्य व विपुल योग विद्या अनुग्रहीत केली.

३८.३९.४० अशा सिंहासारख्या राजाचे चरित्र आणि महिमा पाहुन नारदान्ने एका यज्ञसमयी त्याचे गायन केले की, या लोकात यज्ञ, तपस्या आणि पराक्रम तसेञ्च विद्येमधे कार्तवीर्यासारखा अन्य राजा नाही. तो ढाल तलवार हातात घेऊन धनुष्य धारण करुन योग विद्येने आकाशमार्गाने सञ्चार करीत असलेला सप्तद्वीपात सर्वान्ना दिसत असें. त्याञ्च्या राज्यात चोरीचे भय, दुःख आणि कष्ट नव्हते.

४१.४२.४३ या प्रकारे राजाने महिमन्वित होऊन चाळीस हजार वर्षे पर्यन्त प्रजेचे धर्मपूर्वक पालन केले. समुद्रापर्यन्तच्या भूमिचा तोच चक्रवर्ति झाला. तोच पशुपालक व क्षेत्र पालक होता. स्वतःच पाऊस पाडत असल्यामुळे मेघ म्हणविला गेला. योगविद्या प्राप्त, त्याचे हजार हात समुद्र प्रवेश करुन क्रिडा करते वेळी, हजार किरणाञ्च्या सुर्यासमान दिसत.

४४.४५ त्याने आपल्या माणसाङ्करवी नागराज कर्कोटक याला पकडून आपल्या नगरान्त ठेवले. एकदा वर्षाऋतुत, समुद्राची पत्नि नर्मदा मधे, क्रिडा करताना मदोन्मत होऊन नदीला उलटे वाहण्यास लावले.

४६.४७ त्याच्या सहस्त्र बाहुन्नी समुद्र घुसळला असता पाताळात राक्षस निश्चेष्ट होऊन दबून रहात. हाताने समुद्रात खळबळ करतान्ना महान उत्तुङ्ग लाटा उसळून मगरमच्छ इत्यादि मोठे-मोठे जलचर नाश पाऊ लागले. त्याने रावणाला बन्दी करुन महिष्मती नगरीत आणून ठेवले.

४८. तेंव्हा पुलस्य मुनिन्नी येऊन कार्तवीर्याला विनन्ती केली व रावणाला मुक्त केले. परन्तु रावणाने त्याञ्च्या शिकवण्याला न मानता त्याञ्चाच अपमान केला.

४९. एकदा भूकेला अग्निदेव भिक्षा मागण्यासाठी आला असता त्याला कार्तवीर्याने सम्पूर्ण धरतीच भिक्षा म्हणून अर्पण केली.

५०. हे धर्मराज! महान योगाचार्य अनघस्वामीञ्च्या अनुग्रहामुळेञ्च कार्तवीर्य इतका महान झाला.


तृतीय खण्ड

५१. या प्रकारे कार्तवीर्य योगीच्या प्रचारामुळेच हे अनघाष्टमी व्रत आचरणान्त आले.

५२.५३.५४ अघ म्हणजे पाप हे तीन प्रकारचे आहेत. तीन प्रकारची पापे निवारण करतो म्हणून हे (दत्त) अनघ म्हणवितात. अनघाची अष्टैश्वर्यासहीत या व्रत विधानाची पूजा केली पाहीजे. अणिमा, लघिमा, प्राप्ति, प्राकाम्य, महिमा, ईशित्व, वशित्व, कामावसायित, हे आठ योग सिद्धिचे अष्टाऐश्वर्य आहे. हेच मोक्षाचे लक्षण आहे. या आठ ऐश्वर्याने जनविश्वासासाठी दत्ताचे पुत्र रूपान्त जन्म घेतला.

५५.५६ भक्तिपूर्वक याञ्ची सेवा करता समस्त पापे दूर होतात. जो जगाला पापरहित करतो, तोच अनघ आहे. अनघत्व हाच प्राण आहे. माझ्या (विष्णूच्या) अंशाने जन्म घेणारे ब्रह्मर्षि, दत्त आहेत.

धर्मराज उवाच

५७.५८. श्रीकृष्णा! कार्तवीर्यार्जुनाने हे व्रत कोणते विधान, कोणते नियम, कोणत्या वेळा, कोणत्या दिवशी केले. हे सर्व मला विस्तार पूर्वक साङ्ग.

श्रीकृष्ण उवाच

५९.६०.६१ मार्गशीर्षमास, कृष्ण पक्ष, अष्टमीच्या दिवशी अनघ दम्पति तथा त्याञ्चे अष्टपुत्राञ्ची कुश (दर्भ) मूर्ति तयार करुन, त्या शान्त मूर्तिन्ना आसनावर स्थापित करुन गन्ध पूष्पाने पूजा करावी.

६२ अनघाला विष्णू, अनघादेवीला लक्ष्मी, पुत्रान्ना हरिवंशोक्त अर्चना करावी.

६३.६४. अनेक प्रकाराची फळे, कन्दमुळे नैवेद्य दाखवावा. यानन्तर बन्धूजन आणि ब्राह्मणान्ना भोजन द्यावे.

६५.६६ व्रताच्या शेवटी कोणालातरी एकाला हे व्रत द्यावे. या प्रकारे ज्यान्नी हे व्रत घेतले त्यान्नी दृढतापूर्वक या व्रताचे दिवशी उपवास करुन दूसरे दिवशी पारणे करावे. अशाप्रकारे आयुष्यभर हे करावे असा माझा अभिप्राय आहे. कमीतकमी एक वर्ष तरी करावे.

६७.६८ रात्री सङ्गीत, नृत्य आदिन्नी जागरण करावे. दुसऱ्या दिवशी नवमीला त्या प्रतिमेला पाण्यात विसर्जित अथवा उत्तर पूजा करावी. या प्रकारे दर वर्षी हे व्रत श्रद्धापूर्वक केल्यास सर्व पापे दूर होतात.

६९. त्याञ्च्या परिवारात वृद्धि होते. त्यान्ना विष्णु भगवन्त प्रसन्न होतात. सात जन्माम्पर्यन्त निरोगी काया प्राप्त होते. मोक्ष प्राप्त होतो.

७०. धर्मराज! हे व्रत पापनाशक आहे. हे व्रत एकाग्रतेने केल्यास कीर्तिवान होऊन कार्तवीर्यार्जुनासमान होतो.

श्री गुरु उवाच

वत्स दीपक!

७१.७२ तुला दत्त कथा विस्तारपूर्वक साङ्गितली आहे. ज्या प्रकारे जम्भासुरकडून पराभूत देवताञ्ची रक्षा केली, ज्या प्रकारे त्यान्ना अनघ नाव प्राप्त झाले, तसेञ्च त्याञ्ची योगचर्या, त्याञ्च्या वरदानासहीत अनघस्वामी प्रसन्न करण्याच्या हेतुने या व्रताचे विधान तुला साङ्गितले.

७३. वत्सा! तुझी अजुन काय जिज्ञासा आहे ज्याचे मी समाधान करूं ?


इति व्यास रचित

श्री दत्तपुराण चतुर्थांश

श्री अनघाष्टमी व्रतरूपः

भविष्योत्तरपुराणान्तर्गतः षष्ठाध्यायः सम्पूर्णः ।


उत्थरपूजा

दुसरे दिवशी सकाळी पंचोपचार पूजा करून दूध साखर किंवा दही भात नैवेद्य दाखवून पुढील मन्त्राने अक्षता वाहणे.

ॐ य़ान्तु देवगणाः सर्वे पूजामादाय पार्थिवीम् ।

इष्टकामप्रसिद्ध्यर्थं पुनरागमनाय च ॥


निर्माल्य पाण्यात विसरजन करणे.


श्रीदत्तस्तवं

दत्तात्रेयं महात्मानं वरदं भक्त वत्सलं

प्रपन्नर्तिहरं वन्दे स्मर्तृगामी सनोऽवतु ॥ १॥


दीनबन्धु कृपासिन्धुं सर्वकारण कारणम् ।

सर्वरक्षाकरं वन्दे स्मर्तृगामी सनोऽवतु ॥ २॥


शरणागतदीनार्त परित्राण परायणम् ।

नारायणं विभूं वन्दे स्मर्तृगामी सनोऽवतु ॥ ३॥


सर्वानर्थहरं देवं सर्वमङ्गल मङ्गलम् ।

सर्वक्लेशहरं वन्दे स्मर्तृगामी सनोऽवतु ॥ ४॥


ब्रह्मण्यन्धर्मतत्त्वज्ञं भक्तकिर्तीविवर्धन ।

भक्ताभीष्टप्रदं वन्दे स्मर्तृगामी सनोऽवतु ॥ ५॥


शोषणम्पापपङ्कस्य दीपनं ज्ञानतेजसः ।

तापप्रशमनं वन्दे स्मर्तृगामी सनोऽवतु ॥ ६॥


सर्वरोगप्रशमनं सर्वपीडा निवारणम् ।

विपदुद्धरणं वन्दे स्मर्तृगामी सनोऽवतु ॥ ७॥


जन्मसंसारबन्धघ्नं स्वरूपानन्ददायकम् ।

निःश्रेयस पदं वन्दे स्मर्तृगामी सनोऽवतु ॥ ८॥


जय लाभ यशः कामदातुर्ददत्तस्यं यःस्तवम् ।

भोगमोक्षप्रदस्येयं प्रपठेत् सुकृती भवेत् ॥ ९॥


श्रीवासुदेवानन्दसरस्वतीविरचितं श्रीदत्तात्रेयस्तोत्रं सम्पूर्णम् ।


अथ अष्टलक्ष्मी स्तुतिः ।

रथमध्यामश्वपूर्वां गजनादप्रबोधिनीम् ।

साम्राज्यदायिनीं देवीं गजलक्ष्मीं नमाम्यहम् ॥ १॥


धनमग्निर्धनं वायुःधनं भूतानि पञ्च च ।

प्रभूतैश्वर्यसन्धात्रीं धनलक्ष्मीं नमाम्यहम् ॥ २॥


पृथ्वीगर्भसमुद्भिन्ननानाव्रीहिस्वरूपिणीम् ।

पशुसम्पत्स्वरूपां च धान्यलक्ष्मीं नमाम्यहम् ॥ ३॥


न मात्सर्यं न च क्रोधो न भीतिर्न च भेदधीः ।

यद्भक्तानां विनीतानां धैर्यलक्ष्मीं नमाम्यहम् ॥ ४॥


पुत्रपौत्रस्वरूपेण पशुभृत्यात्मना स्वयम् ।

सम्भवन्ती च सन्तानलक्ष्मीं देवीं नमाम्यहम् ॥ ५॥


नानाविज्ञानसन्धात्रीं बुद्धि शुद्धि प्रदायिनीम् ।

अमृतत्त्वप्रदात्रीं च विद्यालक्ष्मीं नमाम्यहम् ॥ ६॥


नित्यसौभाग्यसौशील्यं वरलक्ष्मीं ददाति या ।

प्रसन्नां स्त्रैणसुलभां आदिलक्ष्मीं नमाम्यहम् ॥ ७॥


सर्वशक्तिस्वरूपां च सर्वसिद्धिप्रदायिनीम् ।

सर्वेश्वरीं श्री विजयलक्ष्मीं देवीं नमाम्यहम् ॥ ८॥


अष्टलक्ष्मींसमाहारस्वरूपां तां हरिप्रियाम् ।

मोक्षलक्ष्मीं महालक्ष्मीं सर्वलक्ष्मीं नमाम्यहम् ॥ ९॥


दारिद्र्यदुःखहरणं समृद्धिमपि सम्पदाम् ।

सच्चिदानन्दपूर्णत्वं अष्टलक्ष्मी स्तुतेर्भवेत् ॥ १०॥


इति श्री दत्तपीठाधीश्वर श्री श्री श्री गणपति सच्चिदानन्द यतिवर विरचिता अष्टलक्ष्मी स्तुति समाप्ता ।