।श्रीपाद श्रीवल्लभ स्तोत्रम्. ।।
श्रीपाद वल्लभ गुरोः वदनारविन्दं
वैराग्य दीप्ति परमोज्वलमद्वितीयम् ।
मन्दस्मितं सुमधुरं करुणार्द्र नेत्रं
संसार-ताप-हरणं सततं स्मरामि ।।
श्रीपाद वल्लभ गुरोः करकल्पवृक्षं
भक्तेष्ट - दान - निरतं रिपुसंक्षयं वै।
संस्मरणमात्र चिति - जागरणं सुभद्रं
संसार - भीति - शमनं सततं भजामि ।।
श्रीपाद वल्लभ गुरोः परमेश्वरस्य
योगीश्र्वरस्य शिवशक्ति समन्वितस्य ।
श्री पर्वतस्य शिखरं खलु सन्निविष्टं
त्रैलोक्य - पावन - पदाब्जमहं नमामि।।
।।दिगंबरा दिगंबरा श्रीपाद श्रीवल्लभ दिगंबरा।।
।।श्रीपादराजं शरणं प्रपद्ये।।